(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.29. अध्यायः 029
Mahabharata - Sabha Parva - Chapter Topics
अर्जुनेन उत्तरदिग्विजये किम्पुरुषादिखण्डजयः॥ 1॥ अर्जुनस्य खाण्डवप्रस्थं प्रति प्रत्यागमनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन इवाच॥

स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्।
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम्॥ 2-29-1(12480)
महता सन्निपातेन क्षत्रियान्तकरेण ह।
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्॥ 2-29-2(12481)
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्।
पाकशासनिरव्यग्रः सहसैन्यः समासदत्॥ 2-29-3(12482)
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्।
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः॥ 2-29-4(12483)
सरो मानसमासाद्य हाटकानभितः प्रभुः।
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः॥ 2-29-5(12484)
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान्।
लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा॥ 2-29-6(12485)
`हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा।
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः॥ 2-29-7(12486)
हरिवर्षं विवेशाथ सैन्येन महता वृतः।
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान्॥ 2-29-8(12487)
नगरान्सवनांश्चैव नदीश्च विमलोदकाः।
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः॥ 2-29-9(12488)
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः।
वशे चक्रे स रत्नानि लेभे च सुबहूनि च॥ 2-29-10(12489)
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः।
अथ राजन्नतिक्रम्य निषधं शैलमायतम्॥ 2-29-11(12490)
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम्।
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान्॥ 2-29-12(12491)
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः।
सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः॥ 2-29-13(12492)
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा।
जित्वा च तान्महाभागान्करे च विनिवेश्य च॥ 2-29-14(12493)
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह।
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः॥ 2-29-15(12494)
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत्।
तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम्॥ 2-29-16(12495)
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम्।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्॥ 2-29-17(12496)
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः।
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम्॥ 2-29-18(12497)
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः।
व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम्॥ 2-29-19(12498)
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम्।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्॥ 2-29-20(12499)
नानाविहगसङ्घैश्च नादितं सुमनोहरैः।
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा॥ 2-29-21(12500)
मेरोरिलावृतं दिव्यं सर्वतः परिमण़्डितम्।
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः॥ 2-29-22(12501)
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः।
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः॥ 2-29-23(12502)
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम्।
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः॥ 2-29-24(12503)
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ।
प्रतीमानभवद्राजन्सर्वतः स विलोकयन्॥ 2-29-25(12504)
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः।
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च॥ 2-29-26(12505)
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा।
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः॥ 2-29-27(12506)
अथादाय बहून्रत्नान्गमनाययोपचक्रमे।
मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः॥ 2-29-28(12507)
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन्।
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम्॥ 2-29-29(12508)
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्।
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम्॥ 2-29-30(12509)
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः।
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः॥ 2-29-31(12510)
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम्।
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम्॥ 2-29-32(12511)
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्।
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह॥ 2-29-33(12512)
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च।
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान्॥ 2-29-34(12513)
तान्नदीसलिलाहारान्सदारानमरोपमान्।
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान्॥ 2-29-35(12514)
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः।
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम्॥ 2-29-36(12515)
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम्।
नागानां रक्षितं देशमजयश्च पुनस्ततः॥ 2-29-37(12516)
ततो गन्वा महाराज वारुणीं पाकशासनिः।
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः॥ 2-29-38(12517)
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः।
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम्॥ 2-29-39(12518)
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः।
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च॥ 2-29-40(12519)
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः।
पुनश्च परिवृत्याथ माध्यं देशमिलावृतम्॥ 2-29-41(12520)
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः।
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्॥ 2-29-42(12521)
ये ते कीचकवेणूनां छायां रम्यामुपासते।
कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान्॥ 2-29-43(12522)
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान्।
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च॥ 2-29-44(12523)
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ।
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः॥ 2-29-45(12524)
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम्।
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान्॥ 2-29-46(12525)
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च।
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः॥ 2-29-47(12526)
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः।
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम्॥ 2-29-48(12527)
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः।
तं देशमथ जित्वा स करे च विनिवेश्य च॥ 2-29-49(12528)
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम्।
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः॥ 2-29-50(12529)
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान्।
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः॥ 2-29-51(12530)
गन्धर्वरक्षितं देशमजयत्सगणं तदा।
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः॥ 2-29-52(12531)
वर्षं हिरण्वतं नाम विवेशाथ महीपते।
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे॥ 2-29-53(12532)
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा।
महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम्॥ 2-29-54(12533)
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया।
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम्॥ 2-29-55(12534)
तं कलापधरं शूरं सरथं सधनुः करम्।
सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम्॥ 2-29-56(12535)
सुकुमारं महासत्वं तेजोराशिमनुत्तमम्।
शक्रोपमममित्रघ्नं परवारणवारणम्॥ 2-29-57(12536)
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे।
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः॥ 2-29-58(12537)
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम्॥ 2-29-59(12538)
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि।
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः॥ 2-29-60(12539)
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम्।
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च॥ 2-29-61(12540)
मणिहेमप्रबालानि शस्त्राण्याभरणानि च।
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ॥ 2-29-62(12541)
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः।
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः॥ 2-29-63(12542)
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन्।
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम्॥ 2-29-64(12543)
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून्।
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय'॥ 2-29-65(12544)
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः।
इयेष जेतुं तं देशं पाकशासनन्दनः॥ 2-29-66(12545)
तत एनं महावीर्यं महाकाया महाबलाः।
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्॥ 2-29-67(12546)
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत॥ 2-29-68(12547)
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः।
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै॥ 2-29-69(12548)
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते।
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते॥ 2-29-70(12549)
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन।
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्॥ 2-29-71(12550)
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि।
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत॥ 2-29-72(12551)
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव।
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः॥ 2-29-73(12552)
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्॥ 2-29-74(12553)
`नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः'।
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्॥ 2-29-75(12554)
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्।
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा॥ 2-29-76(12555)
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु।
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च॥ 2-29-77(12556)
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि।
मयूरसदृशान्यान्सर्वाननिलरंहसः॥ 2-29-78(12557)
वृतः सुमहता राजन्बलेन चतुरङ्गिणा।
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्॥ 2-29-79(12558)
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्।
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ॥ ॥ 2-29-80(12559)

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनत्रिंशोऽध्यायः॥ 29॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.