|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.29. अध्यायः 029
Mahabharata - Sabha Parva - Chapter Topics
अर्जुनेन उत्तरदिग्विजये किम्पुरुषादिखण्डजयः॥ 1॥ अर्जुनस्य खाण्डवप्रस्थं प्रति प्रत्यागमनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन इवाच॥
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्।
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम्॥ 2-29-1(12480)
महता सन्निपातेन क्षत्रियान्तकरेण ह।
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्॥ 2-29-2(12481)
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्।
पाकशासनिरव्यग्रः सहसैन्यः समासदत्॥ 2-29-3(12482)
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्।
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः॥ 2-29-4(12483)
सरो मानसमासाद्य हाटकानभितः प्रभुः।
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः॥ 2-29-5(12484)
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान्।
लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा॥ 2-29-6(12485)
`हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा।
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः॥ 2-29-7(12486)
हरिवर्षं विवेशाथ सैन्येन महता वृतः।
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान्॥ 2-29-8(12487)
नगरान्सवनांश्चैव नदीश्च विमलोदकाः।
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः॥ 2-29-9(12488)
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः।
वशे चक्रे स रत्नानि लेभे च सुबहूनि च॥ 2-29-10(12489)
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः।
अथ राजन्नतिक्रम्य निषधं शैलमायतम्॥ 2-29-11(12490)
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम्।
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान्॥ 2-29-12(12491)
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः।
सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः॥ 2-29-13(12492)
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा।
जित्वा च तान्महाभागान्करे च विनिवेश्य च॥ 2-29-14(12493)
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह।
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः॥ 2-29-15(12494)
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत्।
तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम्॥ 2-29-16(12495)
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम्।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्॥ 2-29-17(12496)
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः।
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम्॥ 2-29-18(12497)
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः।
व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम्॥ 2-29-19(12498)
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम्।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्॥ 2-29-20(12499)
नानाविहगसङ्घैश्च नादितं सुमनोहरैः।
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा॥ 2-29-21(12500)
मेरोरिलावृतं दिव्यं सर्वतः परिमण़्डितम्।
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः॥ 2-29-22(12501)
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः।
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः॥ 2-29-23(12502)
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम्।
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः॥ 2-29-24(12503)
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ।
प्रतीमानभवद्राजन्सर्वतः स विलोकयन्॥ 2-29-25(12504)
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः।
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च॥ 2-29-26(12505)
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा।
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः॥ 2-29-27(12506)
अथादाय बहून्रत्नान्गमनाययोपचक्रमे।
मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः॥ 2-29-28(12507)
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन्।
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम्॥ 2-29-29(12508)
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्।
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम्॥ 2-29-30(12509)
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः।
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः॥ 2-29-31(12510)
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम्।
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम्॥ 2-29-32(12511)
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्।
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह॥ 2-29-33(12512)
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च।
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान्॥ 2-29-34(12513)
तान्नदीसलिलाहारान्सदारानमरोपमान्।
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान्॥ 2-29-35(12514)
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः।
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम्॥ 2-29-36(12515)
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम्।
नागानां रक्षितं देशमजयश्च पुनस्ततः॥ 2-29-37(12516)
ततो गन्वा महाराज वारुणीं पाकशासनिः।
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः॥ 2-29-38(12517)
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः।
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम्॥ 2-29-39(12518)
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः।
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च॥ 2-29-40(12519)
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः।
पुनश्च परिवृत्याथ माध्यं देशमिलावृतम्॥ 2-29-41(12520)
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः।
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्॥ 2-29-42(12521)
ये ते कीचकवेणूनां छायां रम्यामुपासते।
कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान्॥ 2-29-43(12522)
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान्।
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च॥ 2-29-44(12523)
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ।
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः॥ 2-29-45(12524)
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम्।
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान्॥ 2-29-46(12525)
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च।
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः॥ 2-29-47(12526)
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः।
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम्॥ 2-29-48(12527)
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः।
तं देशमथ जित्वा स करे च विनिवेश्य च॥ 2-29-49(12528)
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम्।
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः॥ 2-29-50(12529)
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान्।
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः॥ 2-29-51(12530)
गन्धर्वरक्षितं देशमजयत्सगणं तदा।
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः॥ 2-29-52(12531)
वर्षं हिरण्वतं नाम विवेशाथ महीपते।
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे॥ 2-29-53(12532)
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा।
महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम्॥ 2-29-54(12533)
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया।
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम्॥ 2-29-55(12534)
तं कलापधरं शूरं सरथं सधनुः करम्।
सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम्॥ 2-29-56(12535)
सुकुमारं महासत्वं तेजोराशिमनुत्तमम्।
शक्रोपमममित्रघ्नं परवारणवारणम्॥ 2-29-57(12536)
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे।
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः॥ 2-29-58(12537)
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम्॥ 2-29-59(12538)
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि।
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः॥ 2-29-60(12539)
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम्।
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च॥ 2-29-61(12540)
मणिहेमप्रबालानि शस्त्राण्याभरणानि च।
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ॥ 2-29-62(12541)
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः।
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः॥ 2-29-63(12542)
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन्।
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम्॥ 2-29-64(12543)
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून्।
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय'॥ 2-29-65(12544)
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः।
इयेष जेतुं तं देशं पाकशासनन्दनः॥ 2-29-66(12545)
तत एनं महावीर्यं महाकाया महाबलाः।
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्॥ 2-29-67(12546)
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत॥ 2-29-68(12547)
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः।
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै॥ 2-29-69(12548)
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते।
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते॥ 2-29-70(12549)
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन।
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्॥ 2-29-71(12550)
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि।
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत॥ 2-29-72(12551)
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव।
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः॥ 2-29-73(12552)
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्॥ 2-29-74(12553)
`नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः'।
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्॥ 2-29-75(12554)
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्।
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा॥ 2-29-76(12555)
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु।
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च॥ 2-29-77(12556)
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि।
मयूरसदृशान्यान्सर्वाननिलरंहसः॥ 2-29-78(12557)
वृतः सुमहता राजन्बलेन चतुरङ्गिणा।
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्॥ 2-29-79(12558)
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्।
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ॥ ॥ 2-29-80(12559)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनत्रिंशोऽध्यायः॥ 29॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|